नवग्रहस्तोत्र
जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् |
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ||१||
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् |
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ||२|
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् |
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ||३|
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् |
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ||४|
देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् |
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ||५||
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् |
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ||६||
नीलांजनसमाभासं रविपुत्रं यमाग्रजम् |
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ||७
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् |
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ||८
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् |
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ||९||

+ comments + 1 comments
7ytuytu
Post a Comment