skip to main |
skip to sidebar
कलशस्य मुखे विष्णुः कण्ठे रूद्रः समाश्रितः।मूले तवस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः।।कुक्षौ तु सागराः सर्वे, सप्तद्वीपाः वसुन्धरा।ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः।।अंगैश्च सहिताः सर्वे कलशन्तु समाश्रिताः।अत्र गायत्री सावित्री, शांति-पुष्टिकरी सदा।।त्वयि तिष्ठन्ति भूतानि, त्वयि प्राणाः प्रतिष्ठिताः।शिवः स्वयं त्वमेवासि, विष्णुस्तवं च प्रजापतिः।।आदित्या वसवो रूद्रा, विश्वेदेवाः सपैतृकाः।त्वयि तिष्ठन्ति सर्वेऽपि, यतः कामफलप्रदा।।त्वत्प्रसादादिमं यज्ञं, कर्तुमीहे जलोद्भव।सान्निध्यं कुरू मे देव! प्रसन्नो भव सर्वदा।।
Post a Comment